12 जीवति तु वंश्ये युवा 4/1/163
कांता देवी ए डॉ0 दर्षना देवी
Page No. : 58-62
ABSTRACT
वंश उत्पादकपित्रादिपरम्परा, तत्र भवो वंश्यः। दिगादित्वाद्यत। तदाहः वंश्ये पित्रादौ जीवति पौत्रादेर्य दपत्यं चतुर्थादि तद्युवसंज्ञमेव, न तु गोत्र संज्ञम् जीवतीति सन्तभ्यन्तम्।
पित्रादिरूत्पादकप्रवन्धो वंशः । तत्र भवो वंश्यः। दिगादित्वाद्यत्। अत एव पितृव्यमातुलादीनां न वंश्यत्वम्, अपत्योत्पादकप्रबन्धेऽप्रवेशात्। तदाह-पित्रादाविति । पौत्रप्रभृतीत्यनुवृत्तं षष्ठुया विपरिणभ्यते, ब्याख्यानादित्याहपौत्रादेरिति। तु शब्दो युवेत्यन्नतरम् एवकाराऽर्थोबोध्यः। तदाह युवसंज्ञेमेवेति। समावेशे तु औपगवस्य गौत्रस्यापत्यमौपगविरित्यादौ एको गोत्रे इति नियमादि´् न स्यात्। न च गोत्राद्यूनीत्येनाऽप्राप्तविधानान्न दोषः। एवमपि गर्गस्य चतुर्थे जीवद्वंश्ये विवक्षिते गार्ग्य इत्यस्याऽप्यापत्तेः। गार्ग्यायण इत्येवेष्यते। न च गोत्राद्यूनीत्यावर्त्य नियमोऽपिव्याख्येय इति न दोषः। तु शब्दस्यैव लघुत्वात् ।
FULL TEXT